अधिकरणसारावली
वैश्वानराधिकरणम्
1.2.16 स्वर्लोकादित्यवाताम्बरसलिलमहीरूपमूर्द्धादिक्लृप्त्या
ध्येयो वैश्वानरात्मा स्थिरबहुविशयश्शब्दलिङ्गादिसाम्यात्।
मैवं ब्रह्मेत्यधीतेर्भुवनतनुतया योगतस्त्वग्निशब्दो
वैशिष्ट्याद्वा क्रियाङ्गं स्ववपुषि परधीर्गार्हपत्यादिधीश्च।।
1.2.17 अन्यस्मिन्नन्यदृष्ट्या न भवति विदुषां क्वापि निश्श्रेयसाप्ति-
स्तस्माद्वैश्वानरोऽसौ न पर इति फलं त्वन्नसिद्ध्यादि मैवम्।
ब्रह्मैव ह्यन्यदृष्ट्यन्वितघटितमिह ब्रह्मशब्दाद्यभावात्
सर्वाघध्वंस उक्तः फलमपि परमं ब्रह्म च व्याप्तमन्नम्।।
1.2.18 त्रिष्वत्रोपासितॄणां मितहृदयगुहाक्ष्यन्तरश्चिन्त्य उक्तो
विश्वान्तर्यामितादेर्विपुलपरिमितश्चिन्तनीयस्त्रयेऽथ।
षट्सु ब्रह्मात्मशब्दौ पुरुषपदमपि क्षेत्रतज्ज्ञप्रपञ्च-
व्यावृत्ते विश्वहेतौ प्रकरणनियमान्नामवृत्त्या नमन्ति।।
1.2.19 तज्जत्वादेर्हि सर्वं जग्दभिगदितं ब्रह्मभावेन पूर्वं
सर्वान्तर्यामिता च प्रभवितुरुदिता सर्वतद्देहता च।
तस्माद्विश्वैक्यबाधप्रभृतिबहुविधापार्थबम्भ्रम्यमाण-
क्षुद्रक्षीबोक्तिजालं निखिलमिह नयैस्सूत्रकारो निरास।।
1.2.20 स्वाधीनाशेषसत्तास्थितियतनतया सर्वभावेन तिष्ठन्
ग्रस्ताशेषोऽक्षिनित्यस्थितिरखिलतनुः कल्पिताग्न्यादिगात्रः।
स्वर्लोकाद्यङ्गवैश्वानरपदविषयो लक्षणस्यादिमस्य
प्रोक्तः पादे द्वितीये श्रुतिनिकरशिरश्शेखरः श्रीनिवासः।।
********