अधिकरणसारावली
सर्वत्रप्रसिद्ध्यधिकरणम्
1.2.5 यस्य प्राणश्शरीरं स खलु हिततमोपास्तिकर्मप्रसक्त-
स्तस्मिञ़्जीवत्वशङ््काजगदुपजनके सौति शाण्डिल्यविद्या।
पूर्वन्यायाच्च युक्तन्दमनमिह महावाक्यतः प्रक्रमस्ये-
त्युत्थाने प्रक्रमोक्तानुगुणमिति महावाक्यमेकीकरोति।।
1.2.6 अन्वारुह्यात्र भेदं प्रथममधिकृतिर्भाषिता किंनिमित्तं
विद्यैकत्वे़ऽनुवादः पर इह गुणविद्ध्यर्थमेवेति युक्तम्।
सत्यं ब्रह्मानुमत्य क्वचिदुपनिषदि क्वापि कल्प्ये विवादे
चिन्तैषोदाहृतिस्स्यात्परमतरचितेत्यर्थसिद्धिस्तु बोद्ध्या।।
1.2.7 सर्वत्वं कर्मभिस्स्वैर्जनिमति घटते ब्रह्मशब्दोऽत्र चैवे-
त्यल्पस्थानोऽल्पमानस्सुखतदितरभुग्जीव एवेति चेन्न।
तज्जत्वादेरनूक्तेर्विविधगुणभिदादर्शनात्सर्वतादे-
स्स्वारस्स्यादप्यणुत्वं ह्युपधिकृतमिहोपास्तये ज्यायसि स्यात्।।
********