अधिकरणसारावली
अपशूद्राधिकरणम्
1.3.27 जैमिन्युक्तापशूद्राधिकरणसरणेर्नास्ति विद्याग्निलब्धिः
शूद्रादीनान्तथाऽपि स्मृतिपरभजनाधिक्रिया जाघटीति।
श्रोतृत्वाद्भारतादेस्स्वजनिसमुचितैः कर्मभिश्चेत्ययुक्तं
प्राप्ते ब्रह्मोपदेशे ह्युपनयनपरामर्शनादि प्रसिद्धम्।।
1.3.28 शूद्राणां भारतादेश्श्रवणमनुमतं पापशान्त्यादिसिद्ध्यै
वेदार्थापातबुद्धिर्यदनधिकरणा नोपबृंह्येत तैस्सः।
विद्यास्थानानि शूद्रैर्मुरभिदकथयत् पाण्डवाय द्विसप्ता
प्यस्प्रष्टव्यानि तस्मान्न हि विकलधियां स्यादुपासाधिकारः।।
1.3.29 गीतं शूद्रादिकानामपि परभजनं केवलं स्वार्हधर्मै-
र्धर्मव्याधस्तुलाधृग्विदुर इति च ते प्राग्भवाभ्याससिद्धाः।
वक्ता शूद्रेति जानश्रुतिमभिमुखयञ् शोकमस्य व्यनक्ति
क्षत्रप्रेषादिलिङ्गैस्स्फुटतरविदितं क्षत्रियत्वं हि तस्य।।
*******