अधिकरणसारावली
अर्थान्तरत्वादिव्यपदेशाधिकरणम्
1.3.30 धूत्वेति प्राच्यवाक्यप्रकृत इह भवेन्मुक्त आकाशनामा
बन्धेऽसौ नामरूपे वहति तदनु च ब्रह्मभावे जहाति।
इत्यन्याय्यं पुरोक्तः पुनरयमभिसम्भाव्य एव ह्युपात्तो
ब्रह्मत्वन्न ह्यवस्था श्रुतिषु च युगपज्ज्ञाज्ञतादिर्विभक्तः।।
1.3.31 विश्वात्माऽनन्तभूमा नियमनधृतिकृन्मुक्तभोग्यस्वभावो
दह्रस्वाधारसर्वो हृदयपरिमितावस्थया सर्वयन्ता।
देवादीनामुपास्यो वसुमुखविबुधैस्स्वात्मभावेन सेव्य-
श्शूद्राद्योपास्त्यनर्हः प्रभुरिह बुबुधे नामरूपैककर्ता।।
*******