अधिकरणसारावली
दहराधिकरणम्
1.3.13 दह्रं हृत्पुण्डरीके गगनमभिहितन्तैत्तिरीयश्रुतौ य-
च्छन्दोगैस्तत्र गीतं यदपि च दहराकाश इत्येतदेकम्।
भूताद्यं तत् प्रसिद्धेर्महिमत इति न प्रत्यनीकैरनेकैः
श्रौती च स्यात् प्रसिद्धिर्भगवति बलिनी लिङ्गवर्गैस्सनाथा।।
1.3.14 बाह्याकाशश्च यावानयमपि हि तथेत्येतदक्लिष्टमीशे
सत्यात्मप्राणशब्दा नभसि न कथमप्यन्वयं प्राप्नुवन्ति।
कामाधारश्च योऽसौ समगणि दहराकाशवाचा़ऽत्र नित्य-
स्तस्यैव ह्येष आत्मेत्यनुवदनमतस्तद्गुणाश्चिन्त्यकामाः।।
1.3.15 सर्वेशाधारतोक्त्या भवतु च हृदयव्योम तद्वाज्यधीतं
छान्दोग्यस्थो निषादस्थपतिनयपदं ब्रह्मलोकादिशब्दः।
आपस्तम्बश्च वैभाजनपुरमवदद्ब्रह्म सर्वात्मभूतं
पूतस्तस्य प्राणिनस्स्युस्तदपि तदपि हि स्यात् पुरं सर्ववासात्।।
1.3.16 जीवस्तर्ह्येष आत्मा गुणगणघटनात्तत्परामर्शदृष्टे-
रल्पत्वाद्युक्तितश्चेत्यसदनुपधिकात्सत्यसङ््कल्पतादेः।
विश्वैकाधारतादेरपि स खलु परो दह्रतौपाधिकी स्यात्
प्राजापत्यात्तु वाक्यात्परसमदशया तद्गुणोक्तिर्विमुक्ते।।
1.3.17 दह्राकाशोऽपवर्गप्रद इति गदितुं सम्प्रसादोक्तिरत्र
प्राजापत्ये तु वाक्ये परपरिपठनं प्राप्यनिष्कर्षणार्थम्।
आकाङ्क्षाद्यैस्तदेवं परतदितरयोरन्विते वाक्ययुग्मे
युक्तन्नान्योन्यबाधप्रभृतिकमिह तत्सामरस्यं हि सौत्रम्।।
********