अधिकरणसारावली
देवताधिकरणम्
1.3.20 शब्दात्मा लौकिकार्थाकृतिरियमथवा देवतातो न तस्या
ब्रह्मोपासेत्यनार्षं श्रुतपरिहरणं कल्पनं चाश्रुतस्य।
विश्वस्रष्टा च मा भूदनुमितिविषयस्तत्परैस्त्वेष शास्त्रै-
निर्बाधैस्स्थापितः प्राक् स्वयमपि विभुना नैव शक्यापलापः।।
1.3.21 सामर्थ्यं देवतानामुचिततनुभृतामर्थिता तापभाजां
सम्पद्येतेति तासामपि भवति परोपास्तिवर्गाधिकारः।
ख्यातम्मन्त्रार्थवादप्रभृतिषु निखिलं दोषबाधाद्यभावे
मिथ्येत्युद्धोषयन्तस्स्वत इह कथिताम्मानतां प्रस्मरन्ति।।
1.3.22 द्वेधा वृतिः स्तुतौ स्यात् स्वपरगुणमुखी प्राक्तनी तावदर्थ्या
निर्धार्यः पश्चिमायामपि निपुणधियाम्मुख्यधर्मैकदेशः।
रुच्यर्थायां च तस्यामनृतकथनतो रोचना न ह््यमुग्धे
भूतार्थे का स्तुतिस्स्यादिति मुनिगदिता गौणतादेर्निवृत्त्यै।।
1.3.23 नानादेहाप्तिशक्ताः कथमिह युगपत्कर्मसन्निद्ध्यनर्हा-
स्तत्तद्वृत्तान्तसत्त्वे श्रुतिषु भवति नानित्ययोगः प्रवाहात्।
काण्डादौ कर्तृवादः प्रवचननियतो वेदनित्यत्वसिद्धे-
रीशः प्राचीनकल्पक्रमत उपदिशेद्वर्णसर्गेऽपि वेदान्।।
1.3.24 वेदानामीशबुद्ध्या क्रमनियमहतिः कल्पभेदे यदीष्टा
मन्त्रांशानान्तथा स्यान्न खलु तदुचितं व्रीहिसोमादिसाम्यात्।
इत्थं विद्ध्यर्थवादक्रम इति नियमे पाक्षिके वा तथात्वे
पक्षोऽसावाक्षपादः परमतपरिषत्कोटिमाटीकतान्नः।।
1.3.25 सौक्ष्म्यात्तुल्याभिघारात् सहकृदपनयाच्छादकादान्यपर्या-
दत्यासत्त्याऽतिदूराद्बलवदभिभवानुद्भवाक्षोपघातैः।
नेक्ष्यन्ते वर्तमानान्यपि हि सुरगणस्तद्वदन्तर्द्धिशक्तेः
प्रख्यातास्सिद्धिभेदा आपि जननतपोयोगमन्त्रौषधीभ्यः।।
*******