अधिकरणसारावली
अथ प्रथमाध्याये तृतीय: पाद:
द्युभ्वाद्यधिकरणम्
1.3.1 स्पषटैर्जीवादिलिङ्गैर्युतमिह हि वचस्साद्ध्यते ब्रह्मनिष्ठं
मध्येऽत्राधिक्रियोक्तिस्त्रिषु किमिति न तत्तत्प्रसङ्गात्तदुक्तेः।
किञ्चास्यामर्धलौकायतिकनिरसनं प्रस्तुतार्थोपयुक्तं
ब्रह्मोत्कर्षश्च सिद्ध्येद्गलति दिविषदां कारणैक्यभ्रमश्च।।
1.3.2 न्यायास्सप्तैव साक्षात् परविषयतया सङ्घटन्तेऽत्र पादे
सर्वाधारस्स आत्मा स्वमहिमनिलयस्तत्र तात्पर्यभूमिः।
तत्सिद्ध्यै शासनाद्यं कथितमिह मिथस्स्यूतमालोचनीयं
सर्वेशत्वं च षष्ठप्रमितनयमितं पश्चिमन्यायरक्ष्यम्।।
1.3.3 सिद्धं प्रागेव मुण्डोपनिषदि परमं ब्रह्म तद्धर्मभेदै-
र्भेदोक्तेश्चेत्यकाण्डे किमिति पुनरिमां पिष्टपेषम्पिनष्टि।
सत्यं क्षेत्रज्ञधर्मैः पटुभिरुपनता प्रक्रियाभेदशङ््का
प्रख्याप्य प्रत्यभिज्ञामपुनरुदयमुन्मूल्यते शब्दपूर्वैः।।
1.3.4 यस्मिन्नोतम्मनोऽन्यैस्सह करणगणैर्जायते यश्च नाना
नाड्याधारश्च योऽन्तश्चरति सकरणी कर्मभोक्तेति चेन्न।
विश्वाधारात्मभावादमृतवितरणान्मुक्तसृप्यत्ववादात्।
प्रागुक्तप्रक्रियैक्यादनशनसहितात् काशनाच्चान्यसिद्धेः।।
1.3.5 व्याप्ते तत्राक्षमोतं यदि किमिह ततो जन्म चास्येच्छयोक्त-
न्नाडीचक्रस्य नाभिर्भवति च स परो हार्दरूपेण तिष्ठन्।
निष्कम्पव्यापिनोऽन्तश्चरणमपि शुभैर्विग्रहैरस्ति लोके
सौबालाम्नातवद्वा चरणमिदमपि स्यादधिष्ठानमात्रम् ।।
**********