अधिकरणसारावली
प्रमिताधिकरणम्
1.3.18 प्राणेशोऽङ्गुष्ठमात्रः क्वचिदनुकथितस्सञ्चरन् कर्मभिः स्वै-
रन्यत्राङ्गुष्ठमात्रं पुरुषमपि यमो निश्चकर्षेति दृष्टम्।
तस्मादेतत्प्रमाणप्रमितमुपनिषज्जीवमाहेत्ययुक्तं
वाक्यस्थेशानतादेर्नरहृदयपरिच्छित्तितस्तद्धि मानम्।।
1.3.19 नह्यङ्गुष्ठप्रमाणं हृदयमखिलजन्त्वाश्रयन्तत् परस्मि-
न्व्याप्ते तन्मानतोक्तिः क्वचिदिति मनुजाधिक्रियोक्तिप्रसङ्गे।
सूत्रद्वन्द्वद्वयान्तस्त्रिभिरधिकरणैश्चिन्त्यते तद्विशेष-
स्तातीर्यैस्स्थापनीया त्ववजिगमिषिता नेतिकर्तव्यताऽत्र।।
*******