अधिकरणसारावली
भूमाधिकरणम्
1.3.6 आत्माज्ञानाभिलापादनुपरतशुचे नारदाय प्रयुक्तं
प्राणे सानत्कुमारं विरमति वचनं हिंसनार्हस्स जीवः।
अल्पप्रत्यर्थिभूमा निरवधिकसुखोऽप्येष एवेति चेन्न
प्राणाख्यात्सत्यशब्दोदितमधिकतयोपास्यमत्र ह्युपात्तम्।।
1.3.7 नामाद्याशान्तवेद्ये प्रतिवचनवशात् प्रश्नतश्चाधिकोक्ते
प्राणे विश्रान्तिदृष्ट्या भवतु तदवधिः प्रस्तुतात्मोपदेशः।
मैवं जातो हि नामादिवदिह परमादात्मनः प्राण उक्तः
स्वस्मादित्यत्र तत्स्यादिति न विघटनात् स्वारसिक्या विभक्तेः।।
1.3.8 प्राणद्रष्टाऽतिवादी तदनुवदनतश्चोदितस्सत्यवाद-
स्तस्मात्सर्वाहमर्थस्सकलजनयिता प्राण एवेति चेन्न।
एष त्वित्यन्तोक्तेरतिवदनकृतः प्राक्तनादस्य तद्व-
न्नत्वन्योऽस्त्यग्निहोत्री स्वमहिमनिलये ह्यत्र धर्मोपपत्तेः।।
1.3.9 नामादौ वाक्च तस्योपरि तदनु मनश्चाथ सङ्कल्पनामा
चित्तं ध्यानं च तस्माद्बलमपि च ततस्स्याच्च विज्ञानपूर्वम्।
अन्नं तोयं च तेजो गमनमपि ततो मन्मथस्स्यात्तथाऽशा
प्राणस्सत्यः परात्मा सकलनियमिता गम्यते भूमवाक्ये।।
*******