अधिकरणसारावली
॥ प्रथमाध्याये चतुर्थ: पाद:॥
आनुमानिकाधिकरणम्
1.4.1 निर्णीतं वाक्यजातं परविषयतया स्पष्टजीवादिलिङ्गं
तत्तच्छायानुसारि प्रथयति तु वचस्तत्परन्तुर्यपादे।
षड्भिर्द्वाभ्यां च तत्र प्रशमयति नयैस्साङ्ख्ययोगोक्तशङ्कां
घट्टौ जाघट्ट इत्थं कथितनिगमनं त्वष्टमं केचिदूचुः।।
1.4.2 द्वाभ्यां क्षेप्यं प्रधानं कपिलमतमथ त्वेकतोऽन्योक्तसङ्ख्या
तुर्येणाव्याकृतोक्तेरपि विभुरवधिस्स्थाप्यते द्वारवृत्या।
शुद्धाशुद्धौ च जीवावधिकरणयुगेऽनन्तरं वारणीयौ
शेषं तत्रान्तरोक्तेश्वरनिरसनकृत्तुर्यपादाष्टकेऽस्मिन्।।
1.4.3 अक्षाद्यव्यक्तनिष्ठं जडमथ पुरुषन्तत्त्वकाष्ठां विविच्य
ब्रूते वल्ली कठानां परमतपठितां प्रकियामित्ययुक्तम्।
तत्रस्थानेकवाक्योदितविविधवशीकार्यमुख्यक्रमोक्ते
श्शान्तात्मा विष्णुरुक्तः पर इह पुरुषः प्रत्यभिज्ञाप्यते च।।
1.4.4 न ह्यर्था इन्द्रियाणां प्रकृतिरथ मनोहेतुरेषान्न चेष्टं
बुद्धिश्चैतन्न सूते नच महति महाञ्जायते बुद्धिसंज्ञः।
भोक्तुर्युक्तम्महत्त्वम्महति नहि भवेदात्मता पारिशेष्या-
त्त्वव्यक्तोक्तिश्शरीरे तदिह न कपिलप्रक्रियाप्रत्यभिज्ञा।।
********