अधिकरणसारावली
कारणत्वाधिकरणम्
1.4.8 8विश्वोपादानवक्त्री श्रुतिषु सदसदव्याकृतोक्तिः परोक्ते
ह्यव्यक्तेऽन्वेति तस्मात्तदितरदखिलं नेयमत्रेति चेन्न।
यत्रासत्त्वादि दृष्टं प्रकरणविदितन्तत्र सर्वज्ञताद्यं
लिङ्गं स्यादित्यधीतं स्थिरमपि तदिहाबाध्य आत्मादिशब्दः।।
1.4.9 आसीदग्रे त्वसद्वा इदमिति विलयावस्थतामात्रमुक्तं नैवासीत् किञ्चिदित्याद्यपि विलयपरं शून्यादेर्निषेधात्।
सर्वस्याव्याकृतत्वं विभजनविरहात्तादृशावस्थतत्तद्-
द्रव्यस्तोमान्तरात्मा तदिह सदसदव्याकृताद्युक्तिवाच्यः।।
*******