अधिकरणसारावली
चमसाधिकरणम्
1.4.5 स्वातन्त्र्येण ह्यजाया निखिसजनकता सूच्यते क्वापि वाक्ये
बद्धोऽजस्तत्र शेते त्यजति पुनरिमां भुक्तभोगामजोऽन्यः।
इत्युक्तेस्तान्त्रिकी सा त्वियमिति यदि नाजात्वमात्राभिधाना-
दस्वातन्त्र्यप्रसिद्धेस्सृजतिरपि परप्रेर्यतान्नोपरुन्ध्यात्।।
******