अधिकरणसारावली
जगद्वाचित्वाधिकरणम्
1.4.10 यस्यैतत्कर्म वेद्यस्स इति वचनतः कर्मवश्यप्रतीतेः
कर्ता पुंसां स एव स्वकृतपरिणतेरित्युपक्रान्तिभग्नम्।
बालाक्यज्ञाततत्त्वान्तरमुपदिशतः स्यादिहाजातशत्रो-
स्तज्ज्ञातोक्तिर्निरर्था जगति कृततया कर्मशब्दोऽत्र मुख्यः।।
1.4.11 एवं जीवातिरिक्ते प्रकरणनियते तत्र यज्जीवमुख्य-
प्राणाख्यानं न तेन क्षतिरिह हि तथा तद्विशिष्टे ह्युपासा।
प्राणस्य प्राणभाजोऽप्यधिकरणतया वाजिवाक्योक्तनीत्या
ब्रह्मज्ञप्त्यै तदन्यप्रकथनमिति हि स्थापना सार्वभौमी।।
******