अधिकरणसारावली
प्रकृत्यधिकरणम्
1.4.15 1मृत्पिण्डादेः कुलालप्रभृतिरिह पृथक्तद्वदेवादिकर्ता
नोपादानं विकारैर्विरहत इति न द्वारमात्रे विकारात्।
मृद्दृष्टान्तादिमात्रान्नच विकृतिरसौ स्यात् परस्य स्वरूपे
देहद्वारोर्णनाभिप्रभृतिविकृतिवद्व्यापृतेर्दर्शितत्वात्।।
1.4.16 स्वज्ञानाद्यं स्वजन्यं भवति सृजति च स्वान्यसंयोगमीश-
स्संयोगे मूर्तनिष्ठे प्रकृतिरपि हि तत्स्यान्निमित्तं क्रियातः।
एकस्यादौ बहु स्यामिति बहुभवनं सौभरिन्यायसिद्धं
भेदाभेदश्रुतीनामविहतिरिह च स्याद्विशिष्टैक्ययोगात्।।
1.4.17 कार्यैक्ये हि प्रतिज्ञा तदनुगुण उदाहारि दृष्टान्तवर्गः
स्रष्टुस्स्यामित्यभिध्यां श्रुतिरिह वनतां वृक्षतादिं च वक्ति।
आत्मानं चैष एव स्वयमकुरुत तद्भूतयोनित्वमुक्तं
तस्मात्कर्ताऽपि देवः प्रकृतिरपि भवेत् सर्वतत्त्वान्तरात्मा।।
1.4.18 नोपादानं निमित्तं किमपि तदितरत्कारणन्तद्धि विद्मो
यद्वा सिद्धं निमित्तं न भजति तदुपादानतामित्ययुक्तम्।
इष्टादाकारभेदादुभयघटनतो लोकवेदानुरोधे
सिद्धे स्वच्छन्दलक्ष्मप्रणयनकुसृतिः पाकचिन्ताविपाकः।।
1.4.19 उक्त्वा तत्त्वान्तराणां विलयमथ तमस्येकतामात्रमुक्तं
प्रोक्तं चानादितादि प्रकृतिपुरुषयोर्वेदतद्वेदिवाक्यैः।
लीयेते तौ परस्मिन्निति तु लयवचस्स्यादयस्तोयनीत्या
तेनासौ भोक्तृभोग्यप्रभृतिकवचिताद्विश्वसृष्टिस्समीची।।
*******