अधिकरणसारावली
वाक्यान्वयाधिकरणम्
1.4.12 पत्यादीनां प्रियत्वं श्रुतिरनुवदति ह्यात्मनः कामसिद्ध्यै
तेनासौ पुण्यपापोदितफलभुगिति प्रक्रमादिप्रतीतम्।
तत्तद्भोगप्रदातुः प्रथयति हि विभोः कामतस्तत्प्रियत्वं
द्रष्टव्यश्चैष मुक्त्यै श्रुतिनिकरमितः प्रत्यभिज्ञाप्यतेऽत्र।।
1.4.13 व्युत्पत्त्या ह्यात्मशब्दो वदति च परमं ब्रह्म यद्वा समासात्
सार्थोऽयं जीवशब्दो वदति च परमं द्वारवृत्त्येति पक्षाः।
व्यक्त्यैक्यादाश्मरथ्यो निरुपधिकदशाद्वैततस्त्वौडुलोमि-
स्तत्स्थत्वात्काशकृत्स्नः परविषयतया जीवशब्दं जगाद।।
1.4.14 भेदोपाधिव्यपाये भवभृदयमियाब्रह्मतामित्ययुक्तं
नित्यन्तद्भेददृष्टेरतिपतितभवे साम्यसाधर्म्यशब्दात्।
मृत्तत्कार्यक्रमश्च श्रुतिशतविहतस्तेन जीवोक्तिमीशे
तत्स्थत्वात्काशकृत्स्नो यदिह निरवहद्व्याससिद्धान्त एषः।।
*****