अधिकरणसारावली
संख्योपसंग्रहाधिकरणम्
1.4.6 यस्मिन् पञ्चेति वाक्ये परपरिगणिता विंशतिः पञ्चयुक्ता
प्रोक्ता सप्तम्यधीतस्त्विह पुरुषगणोऽनन्यनिष्ठोऽस्तु मैवम्।
आकाशस्य स्वनाम्ना प़ृथगनुकथनात् सप्तमीशक्त्यबाधात्
षड्विंशोऽह्यत्र सर्वाश्रय इति विधितोऽनूद्यते ब्रह्मताद्यैः।।
1.4.7 संज्ञोपाधिस्समासो ह्ययमिति निगमे सप्तसप्तर्षिनीत्या
प्राणाद्यन्तन्मनोन्तं प्रकरणनियतं पञ्चकं धीन्द्रियाख्यम्।
ज्योतिश्शब्देन शाखान्तरविदितमिदं न्यूनवादस्तु पूर्यो
घ्राणं वक्त्यन्नशब्दो रसनमपि सह प्राणशब्दस्त्वगर्थः।।
******