अधिकरणसारावली
सर्वव्याख्यानाधिकरणम्
1.4.20 2अग्रे संवर्तनं भात्यवितथवचसि क्वापि हैरण्यगर्भं
ग्रस्ताशेषस्वकार्ये तमसि च शिव एवेति केचित्पठन्ति।
एतादृग्वाक्यवर्गस्स्फुटभवदधिकाशङ्कनस्तम्भनार्थं
प्रागुक्तान्नीतिभेदानतिदिशति परं शिष्यशिक्षैकचित्तः।।
1.4.21 विश्वेशश्श्रीपतिश्चेद्भवति कथमसौ त्राणमात्राधिकारी
दूरं गत्वाऽपि दुःख्यद्विधिशिवतुलया घट्टकुट्यां प्रभातम्।
मैवं मत्स्यादिभावेष्विव निजविभवानुक्रियानाट्यमेत-
द्ब्रह्मेशस्रष्टरि स्यान्निरवधिकबृहत्पौरुषे पूरुषे नः।।
1.4.22 साङ्ख्योक्तप्रक्रियोक्तेस्तदभिमतसृजेस्तत्प्रसङ्ख्यानक्लृप्ते-
स्तत्प्रोक्ताव्याकृतैक्यात्स्ववृजिनवचनात्तत्फलावद्ययोगात्।
भेदात्कर्तृप्रकृत्योर्द्रुहिणशिवमुखानेकहेतुश्रुतेश्च
क्षिप्तं पादत्रयोक्तं श्रुतिहृदयसमुद्धाटनादन्वरक्षत्।।
1.4.23 जिज्ञास्यत्वेन सिद्धेस्स्थिरचरचिदचिद्देहिनि ब्रह्मतत्त्वे
श्रुत्याद्यैरेव सूक्ता स्वरसगतिरियं कारणाम्नायवाचाम्।
बाधं रोधं च बाह्यान्तरमिह बहुधा वर्णयन्तो मुसल्या
निष्काल्योरन्परस्तान्निषदुपनिषदां निश्चलत्वप्रसिद्ध्यै ।।
1.4.24 आदौ जिज्ञास्यताऽऽस्तां बहुविहतिहता सह्यतां लक्षणोक्तिः
मृष्यामश्शास्त्रयोनिप्रलपितमपि वस्स्यात् समन्वित्यपोक्तिः।
सूत्रैरेतैस्स्फुटार्थैस्सविषयवचनैर्निर्विशेषैक्यपक्षे
मुख्येक्षाद्यैस्स्वधर्मैः प्रकृतिपुरुषतो भेदवादः कथं स्यात्।।
*******