अधिकरणसारावली
आरम्भणाधिकरणम्
2.1.12 कार्यं धर्मैर्विरुद्धैः कट इव शकटात् कारणद्रव्यतोऽन्य- द्व्यापारः कारकाणां विफल इतरथेत्यर्द्धवैनाशिकोक्तौ। द्रव्यैक्येऽप्यस्तु सर्वं तदभिमतदशाभेदतोऽसच्छ्रुतिश्चे- त्यद्ध्यक्षाल्लघवाच्च श्रुतिकथितजगद्ब्रह्मतादात्म्यमुक्तम्।।
2.1.13 मायोपाधिस्वशक्तिव्यतिकरितपरब्रह्ममूलः प्रपञ्चो येषां तेऽप्यद्वितीयश्रुतिमवितथयन्त्यत्र तत्तद्विशिष्टे।
अप्राधान्यात्तथा नः प्रकृतिपुरुषयोरन्तरात्मप्रधाने वाक्येऽस्मिन् स्थूलसूक्ष््मान्वय इति जगतोऽनन्यभावोपपत्तिः।।
2.1.14 विश्वारम्भे विवर्तं शकलपरिणतिं शक्तिशेषस्य सूतिं व्याक्त्युल्लासौ विसृष्टिं विकृतिमनियतां तत्त्वपङ्क्तौ च सृष्टिम्। तत्तद्वाक्यैकदेशः स्वरस इति मुधा कल्पयन्तस्तु मुग्धा स्सर्वश्रुत्यैकरस्यप्रणयिभिरधरीचक्रिरे तत्त्वविद्भिः।।