अधिकरणसारावली
कृत्स्नप्रसक्त्यधिकरणम्
2.1.17 कृत्स्नं कार्यात्मना चेत् परिणमति परं नावशिष्येत किञ्चि- द्यद्यंशान्निष्कलत्वश्रुतिविहतिरिदं स्याद्विशिष्टेऽपि तस्मिन्। ब्रह्मोपादानतैवं न घटत इति चेन्न स्वपक्षेषु साम्या- त्तन्मानात्तद्गृहीतौ श्रुतिमितमिति तल्लोकवत् स्वीकुरुष्व ।।
2.1.18 संयोगाख्यं हि कार्यं विभुतदितरयोस्स्यादणूनाम्मिथो वा कार्त्स्न्येनांशेन वा तद्विहतमिति वदन् शून्यवादे निमज्जेत्। सांख्योऽपि प्राह विभ्वीं प्रकृतिमिति कथन्न्यूनसृष्टिस्ततस्स्या- न्मायादिष्वेवमूह्यं निगमनिगदिता त्वक्षता पद्धतिर्नः।।