अधिकरणसारावली
योगप्रत्युक्त्यधिकरणम्
2.1.7 वेदान् पूर्वं विधाताऽलभत भगवतस्सर्वविद्यानियुक्तो वागीशश्चैष तस्मात्तदुदितविहतौ कम्पनं वेदमूर्ध्नः ।
मैवन्तस्यापि वेदापहृतिमुखविपद्दर्शनात् क्षेत्रिभावात् भ्रान्त्यादिस्सम्भवेदित्यगतिकविषये पूर्ववन्निर्वहामः ॥