अधिकरणसारावली
विलक्षणत्वाधिकरणम्
2.1.8 विश्वं त्रैगुण्यवत् स्यात् त्रिगुणत उदितन्नासमादित्ययुक्तं सर्वाकारेण साम्यं क्वचिदपि न भवेत् केनचित् साम्यमिष्टम्।
भग्ना हेतुव्यवस्थोचितगुणसमता गोमयाद्वृश्चिकादौ स्थूलत्वं याति चेशः प्रकृतितनुरतस्सर्वचोद्योपमर्दः।।
2.1.9 ईक्षा तादृग्बहु स्यामिति सति पठिता तेजसोऽपाञ्च दृष्टा सालक्षण्यं ततस्स्याज्जगत इति मृदुप्रज्ञपार्श्वस्थचोद्ये।
तत्तन्मूर्तेः परस्येक्षणमिदमिति तद्वाक्यभावापलापी सामान्येनाभिमानिव्यवहरणमिह व्याहरत् पूर्वपक्षी।।