अधिकरणसारावली
शिष्टापरिग्रहाधिकरणम्
2.1.10 संवादादक्षपादक्षपणककणभुग्भिक्षुपक्षेष्वणूनां विश्वं तद्धेतुकं स्यादिति मृदुमतिभिश्श्वावराहक्रमोक्तौ । अन्योन्यव्याहतार्थस्थपुटितकुहनायुक्तिदोषापनुत्त्यै भाति त्रय्यन्तसूर्यः प्रतिमततिमिरस्तोमकुक्षिंभरिर्नः।।