अधिकरणसारावली
॥ अथ द्वितीयाध्याये प्रथम: पाद: ॥
स्मृत्यधिकरणम्
2.1.1 तत्तादृक्तर्कतन्त्रक्रमनिपुणमहाबुद्धिसन्तोषसिद्धि- र्यद्यप्युक्तेन लभ्या तदपि मृदुधियां हैतुकास्कन्दशङ्की।
स्थूणाखातक्रमेण स्थिरयति कथितं ब्रह्मणः कारणत्वं कार्यत्वं यस्य यादृक्छ्रुतिभिरवगतं तस्य तत्तादृशञ्च।।
2.1.2 पादद्वन्द्वं द्वितीये परिहरति परे कारणे बाह्यपीडां कार्यद्वारेण पादान्तरयुगमुदयत्यान्तरक्षोभशान्त्यै।
हेतुत्वायोगभङ्गः प्रथममिह विभोस्तस्य सार्वत्रिकत्वा- योगक्षेपः परस्तात् फलति स च भवेच्छ्रौतनित्यं विहाय।।
2.1.3 तन्त्रच्छायानिदाने स्वयमुपनिषदामान्यपर्ये निरुद्धे तन्त्रेभ्यो दुर्बलत्वात्तदनुसरणमित्युज्जिहीते परोऽद्य।
इत्थं सत्यत्र तत्तत्स्मृतिनयपृतनातिक्रमन्तत्तदर्हैः प्रत्यस्त्रैर्वारयित्वा द्रढयति चलितं पादतः प्राच्यमर्थम्।।
2.1.4 निर्णीतं कर्मकाण्डे स्मृतिनयविहतौ निश्चलत्वं श्रुतीनां चर्चा तत्सिद्धयेऽसौ पुनरपि विफलः स्याद्द्वितीयाद्यपादः।
मैवं गम्भीरनानाश्रुतिशिखरपरिच्छेद्यदुर्बोधताया- माप्तोक्त्या तर्कतश्च क्षममनुसरणं पश्यतो ह्यत्र भङ्गः।।
2.1.5 द्वाभ्यां स्मृत्या विरोधं परिहरति ततस्त्वष्टभिस्तर्कबाधं तेनोपादानभावं द्रढयति तु विभोः कर्तृतान्तद्द्वयं च। तत्तत्क्षेपात्तुलाग्रद्वयनमनसमुन्नामनीत्या प्रवृत्ते शङ्कावर्गे परीक्षासमनिहितमतिः पक्षपातं रुणद्धि।।
2.1.6 स्मर्ता श्रुत्यैव गीतः कपिलऋषिरसौ वासुदेवांशभूतः ख्यातो रामायणादौ प्रणिधिनिपुणधीर्वक्ति वेदान्ततत्त्वम्।
तस्मादस्मद्विदूरे श्रुतिशिरसि तदुक्त्यैव निष्कर्षणं स्या- न्न स्यादेकार्थमन्वाद्यनघबहुगिरा तत्र तत्त्वार्थसिद्धेः।।