अधिकरणसारावली
उपलब्ध्यधिकरणम्
2.2.21 न ग्राह्यग्राहकौ स्तः क्वचिदपि विविधानादिसन्तानचित्रो बुद्ध्यात्मा त्र्यात्मकोऽद्य स्फुरति भवदशातिक्रमे स्वात्मनैव । योगाचारोक्तिरित्थं विषयविषयिणोर्बोधबाधौ समानौ मन्वानैर्वारणीया स्वपरविभजनाद्यत्र न क्वापि सिद्ध्येत् ॥
2.2.22 बुद्ध्यैक्यं बोध्यबोद्ध्रोर्न घटत इह ते सत्ययोरन्ययोर्वा भिन्नत्वे ग्राह्यलक्ष्मक्षतिमभिमनुषे नात्र चित्रैक्यमर्थ्यम् । चित्रं द्रव्यं गुणं वा किमिति न च विदुः केऽपि भिन्नैकरूपं तेनात्मख्यातिवादे स्थितिमिह भजतु स्वप्रकाशत्वमात्रे ॥