अधिकरणसारावली
एकस्मिन्नसंभवाधिकरणम्
2.2.27 संवादात् क्वापि भागे जिनमुनिवचसश्शेषमप्यस्तु मानं तस्मात्तेनोपरोध्योपनिषदिति कचोल्लुञ्छनानां दुराशा । वैषम्यस्यापि दृष्टेर्न यदि सुगतवागेवमेवास्तु सत्या तेनान्योन्यं निरोधात् पुरुषवचनयोरप्रकम्प्या श्रुतिर्नः ॥
2.2.28 सच्चासच्च द्वयञ्च द्वितयसमधिकं तच्च पूर्वैस्सहेति स्यादस्तीत्यादिवाचा परिहितगगनैर्गीयते सप्तभङ्गी । व्याघातस्तैर्यदीष्टस्स्वसमयविहतिर्यद्यनिष्टः परोक्ते- स्तद्वाक्यैर्न क्षतिस्स्यान्न च निरुपधिकः क्वाप्यसत्वादियोगः ॥
2.2.29 वृद्धिह्रासौ यथार्हं प्रतितनु भविनां देहभङ्गे विमानं मुक्तौ नित्योर्ध्वयानप्रभृति गुरुतया नित्यपातं क्षमादेः । धर्मादेर्व्यापकत्वं गगनवदथवा तादृशं पुद्गलत्वं दुस्तर्कैः कल्पयन्तश्श्रुतिनयकुशलैर्दूरमुत्सारणीयाः ॥