[highlight_content]

अधिकरणसारावली पशुपत्यधिकरणम्

अधिकरणसारावली

पशुपत्यधिकरणम्

2.2.30   सर्वं जानाति रुद्रश्श्रुतिषु महितस्सत्यवादी दृष्टः प्रख्यातं तद्व्रतञ् क्विदुपनिषदीत्यस्तु मानं तदुक्तिः । मैवं, देवेन दैत्यप्रमथनरुिना मोहशास्त्राणि कुर्वि- त्यादिष्टो ह्येष तन्त्रं निजमकृत ततस्तन्न शिष्टोपजीव्यम् ॥

2.2.31    प्राजापत्ये हि वाक्ये प्रकटमुपनिषत् प्राह देहात्मवादं क्रे लोकायतं तत् सुरगुरुरभजन्मोहनत्वं मुकुन्दः । कण्वस्थाने लौकायतिकपरिबृढा भारतेऽपि प्रगीताः कार्यार्थं विप्रलम्भस्तदिह पशुपतेस्तद्वदेवोपपन्नः ॥

2.2.32    शैवाद्याख्याविशेषैः पशुपतिसमयस्स्यातुर्धाऽन्यथा वा श्रुत्याऽन्योन्यं बाधस्स्फुट इह तदसौ शापदुष्टार्ह उक्तः । अग्राह्यान् वैदिकानामनुसृतनिगमास्सस्मरुस्तत्प्रविष्टान् तत्त्वेऽप्यत्रान्यथात्वं सुगतजिनमतानन्तरोक्तिः क्रमाप्ता ॥

2.2.33    निष्ठा सर्वेषु नारायण इति वनाद्धेत्वहन्तव्यतोक्ते- र्मानत्वोक्त्या तन्त्रान्तरमपि महितं वेदवद्भारतादौ । नातो बौद्धादिवत्तन्निरसनमिति ेत् सत्यमंशे तु बाध- स्स्यान्नासौ पञ्रात्रे क्विदपि तदिह स्वीकृतिर्वेदतुल्या ॥

2.2.34    दृश्यन्ते संगृहीता जगति हि समयास्ते राज्ञाऽनुपाल्या- स्तस्मान्नः पक्षपातः क्विदनुित इत्यर्भकप्रायोद्यम् । मुग्धैरन्ये गृहीता भवतु समयसंरक्षणोक्तिश् धर्म्ये निष्ठैक्योक्तिस्तदन्यग्रहविहतिपरा तद्विरुद्धोक्तिदृष्टेः ॥

error: Content is protected !!