अधिकरणसारावली
अथ द्वितीयाध्याये द्वितीय: पाद:
रचनानुपपत्त्यधिकरणम्
2.2.1 बाधाभावादकम्पे स्थितवति निगमैर्ब्रह्महेतुत्ववादे भूयः किं वीतरागो वदति परपरीवादमत्रेत्ययुक्तम्। प्रख्यातप्राच्यनैकप्रतिसमयभवन्मन्दसन्देहशान्त्यै तुल्यत्वभ्रान्तिसिद्धा प्रकरणसमता तर्कपादे हि वार्या।।
2.2.2 षड्विंशालम्बिसांख्यं स्फुटतरपठितं भारते योगतुल्यं तत्स्थत्वात् पञ्चविंशस्त्विति च निगदितस्सर्वतत्त्वान्तरात्मा। तस्मात् सेशानतन्त्रं श्रुतिसमधिगतं स्थापयित्वाऽथ सूत्रैः पक्षं त्वीशानपेक्षं प्रतिवदति नयैरुत्कटप्रत्यवायम्।।
2.2.3 अव्यक्तादीन्पदार्थाननुमितिमुखतस्स्थापयन्तस्स्वबुद्ध्या षट्त्रिंशत्तत्त्ववादप्रभृतिषु न कथं सङ्गमिच्छन्ति सांख्याः। तुल्याक्षेपोपपत्तीश्श्रुतिनियतिमुचां कल्पनास्सम्मृशन्तो दृष्टं नापह्नुवीरन् लघुमनुमिनुयुश्शेषमिच्छन्ति शास्त्रात्।।
2.2.4 कार्यं किञ्चित् कुविन्दप्रभृतिविरचितं दृश्यतेऽन्यच्च सर्वं कर्त्रायत्तं श्रुतं तत् क्वचिदपि न पराधीनताभङ्गदृष्टिः। पङ्ग्वन्धक्षीरपाथस्तृणजलदतटिद्वाय्वयस्कान्तपूर्वैः दृष्टान्तैर्न त्वदिष्टं फलति तदखिलं चेतनाधिष्ठितं नः।।
2.2.5 नन्वत्राचेतनानां स्वसमुचितविधौ कर्त्रधीनत्वमुक्तं शास्त्रारम्भे विधातुर्व्यनुददनुमितिं किं परस्सूत्रकारः।
पृच्छेयं नातितुच्छा शृणु तदवहितस्सर्वकृन्नानुमातुं नापह्नोतुं च शक्यस्तदुभयनियमादर्शनादित्यमंस्त।।
2.2.6 सत्त्वाद्यान् द्रव्यभेदांस्त्रिगुणमितिसमाहारतः कल्पयन्त- स्तेषां नित्यं विभुत्वे समविषमदशाद्यत्र कीदृग्वदेयुः। अन्योन्याध्यासक्लृप्तिः प्रकृतिपुरुषयोर्भोगमोक्षोपपत्त्यै च्छायापत्त्यादिनीत्या कथमियमुभयाचेतनत्वे घटेत।।
2.2.7 पुंसां भोगापवर्गप्रभृति फलमिदं तच्च सर्वं प्रधाने द्रष्टृत्वादेश्च क्लृप्तिः पुरुष इह पृथग्द्रष्टृतादिश्च बुद्धौ।
मुक्त्यै बद्धस्य शास्त्रं मुनिरकृत ततो नित्यमुक्तोऽस्मि चेत्या- द्यन्योन्यव्याहतोक्तिं वृषलपरिणये जैनभक्ता जपन्तु।।