अधिकरणसारावली
समुदायाधिकरणम्
2.2.15 बाह्योक्ताचारभागश्श्रुतिविहतिवशाज्जैमिनीये निरस्त- स्तत्त्वांशं तर्कितं तैः प्रतिवदति गुरुर्जैमिनेरत्र पादे। निर्धूतं तत्र पूर्वं निरुपधिकनयैरर्धवैनाशिकोक्ते पक्षान्वैनाशिकानां जिनगिरिशमतक्षेपतः प्राक् क्षिणोति।।
2.2.16 बुद्धोऽसौ स्वावतारैस्सह परिगणितः श्रीधरेण स्वशास्त्रे सर्वज्ञो नैव मुह्येन्न च निखिलसुहृद्विप्रलिप्सेत कञ्चित् । तस्माद्बुद्धोक्तभङ्गे भजति भिदुरतां सात्त्वतादीति चेन्न स्वाभीष्टप्रत्यनीकप्रमथनमनसा मोहनादिप्रवृत्तेः ॥
2.2.17 दुर्वारा मोहनेच्छा निखिलजनयितुः केन मोहोऽन्यथा न- स्तस्मात्कर्मानुरूपन्दिशति फलमसौ तत्त्वबोधं भ्रमं वा। स्वोक्त्यादेस्सिद्धमेतन्निरुपधि विषमो नैव तस्मात् समोक्तिः कारुण्याद्विप्रलिप्सा न यदि वृजिनजं नेशनिघ्नं फलं स्यात्।।
2.2.18 कल्प्यो बोद्धेति सर्वे सुगतमतविदो बोध्मध्यक्षमेके बुध्याकारानुमेयं कतिचन कतिचित् बोध्यमिथ्यात्वमाहुः। तत्तुल्यन्यायतोऽन्यो धियमपि जगदुः संवृतेरेव सिद्धां तान्सर्वांस्तर्कमानैर्द्यति दितिजगुरूनद्य वैभाषिकादीन् ।।
2.2.19 एकद्व्यादिस्वभावैर्यदणुभिरथवा तत्तदेकस्वभावैः क्षोणीदेहादिपुञ्जप्रसृतिरिति समाभाषि वैभाषिकेण । ज्ञानादानादि तत्र क्षणभिदुरतया बोध्यबुद्ध्योर्न सिद्ध्ये- न्निर्बाधा प्रत्यभिज्ञाऽप्यनुमितिमथनी शेषमन्यत्र सूक्तम् ॥
2.2.20 बोधेष्वाकारभेदं निजमुपरितनेष्वर्पयन् प्राक्तनोऽर्थ- स्तद्वैचित्र्यानुमेयः क्वचिदपि न तदाऽध्यक्षतेति प्रजल्पन् । प्राक् पश्चाच्च प्रवृत्तैर्विहतिबहुलतां गौरवञ्च ब्रुवाणैः शिक्षादक्षैस्सयूथ्यैर्दमित उपशमं यातु सौत्रान्तिकाख्यः ॥