अधिकरणसारावली
सर्वथानुपपत्त्यधिकरणम्
2.2.23 सत्त्वेऽसत्त्वे द्वये च द्वितयपरिहृतावप्यनिष्टप्रसङ्गै- स्सर्वं शून्यञ्चतुष्कोट्यतिगतमिति नामानतस्स्वेष्टवादात् । अक्षोभ्यन्तत् प्रहाणे परमतमसती संवृतिर्नार्थसिद्ध्यै तस्मादित्थं निषेधो निरुपधिक इह क्वाप्यदृष्टो न कल्प्यः ॥
2.2.24 प्राक्पश्चात् सत्त्वहानेर्गगनकुसुमवत् स्यान्न मध्येऽपि कार्यं मैवन्तत्रैव दृष्टेर्न यदि कथमसौ मध्यकार्यादिशब्दः । कार्यारम्भे निदानं विकृतिमदुत नेत्यादिचिन्ताऽपि वन्ध्या सामग्र्या कार्यसिद्धेर्भजति च गुणतां कारणस्यानवस्था ॥
2.2.25 साध्यं हेतुस्तदङ्गप्रभृति च यदि वस्संवृतेरेव सिद्ध्ये- दस्माद्वाक्यानुरोधादिह न कथमसिद्ध्यादिदोषा भवेयुः । तत्र प्रामाण्यबुद्धिर्न यदि पठत तन्मानमित्यस्मदुक्तिं वस्तुस्थित्या न मानं तदिति यदि समं त्वन्मतस्थापकेऽपि ॥
2.2.26 अख्यातिस्त्वन्यथाधीर्विषयरहितधीस्सानधिष्ठानबुद्धि- र्बाह्यार्थाकारयोगस्सदसदितरधीश्शून्यधीरात्मधीश्च । भ्रान्तौ सर्वत्र तत्तत्परमतकथकैरादृताः पक्षभेदाः प्रायो बुद्धिर्यथार्था श्रुतिविदभिमता क्वापि भेदाग्रहादि ॥