अधिकरणसारावली
अथ द्वितीयाध्यायस्य तृतीय: पाद:
उपोद्घातम्
2.3.1 सर्वं साङ्ख्यास्तु नित्यं क्षणिकमखिलमप्यत्र वैभाषिकाद्याः नित्यानित्यं समस्तं जिनपरिपठितां सप्तभङ्गीं पठन्तः । नित्यानित्ये विभज्याप्यभिदधति विपर्यस्य वैशेषिकाद्याः श्रुत्युत्थांस्तान् निरुन्धन् श्रुतिभिरथ वियत्प्राणपादौ युनक्ति ॥ २२० ॥