अधिकरणसारावली
ज्ञाधिकरणम्
2.3.10 कैश्चिज्ज्ञानत्वमात्रं कथितमुपधिजा ज्ञातृतैवात्मनोऽन्यै- स्तत्राम्नायादिबाधं प्रथयति विविधं ज्ञोऽत इत्यादिसूत्रैः। पूर्वन्यायादमुष्मिञ् जनिलयरहिते नित्यबोधेऽत्र चोक्ते संकोचाद्यर्हबुद्धेर्विकृतिवचनमप्यस्य सद्वारकं स्यात्।।
2.3.11 ज्ञातृत्वं ज्ञानता च श्रुतिभिरभिदधे नात्र पक्षे पताम- स्सर्वत्रात्मा न भायात् किमिति न निगमैर्देहिनोऽणुत्वसिद्धेः। स्वाभासैकस्वमूर्तेरविशदमहसस्सर्वदा भानमिष्टं धीसंकोचात् सुषुप्तिप्रभृतिषु विशदोल्लेखमात्रोपरोधः।।
2.3.12 धर्मस्थे त्वेवकारे त्रिविधमपि भवेत्तद्व्यवच्छेदकत्वं धर्मिण्यस्यान्वये स्यात्तदितरविषये तस्य धर्मस्य हानिः। जानात्येवेत्यबोद्धा न भवति जडता ज्ञानमात्रोक्तिवार्या ज्ञानालोपादिवाक्यानुगुणविषयतां यात्यसावेवकारः।।
2.3.13 उत्क्रान्तिस्पन्दनाणूपमितिवचनतोऽणीयसश्शक्तिलाभे धीभूम्ना यौगपद्यं त्ववयवनयतोऽनेकमूर्तिग्रहेऽपि। यत्राम्नातं विभुत्वं परविषयमिदं भाति तात्पर्यलिङ्गै- र्जीवे व्यापित्ववादो मतिमहिमपरस्स्वच्छताद्याशयो वा।।