अधिकरणसारावली
वियदधिकरणम्
2.3.2 पूर्वत्राधिक्रियायां पुरुषजनिवचो नित्यतोक्त्या निरूढं व्योमोत्पत्तौ तथैव स्थितिरिति वचसोर्व्याहतौ वक्ति कश्चित् । सिद्धान्ती व्योमसृष्टिर्निगमशतमिता नान्यथा सिद्धिरस्यां वायुव्योमामृतोक्तिर्जनिविधिविहतेत्युक्तिवैषम्यमाह ॥२२१॥
2.3.3 तेजः प्राथम्यदृष्टेरमृतवचनतोऽनंशकद्रव्यभावात् व्योमन्युत्पत्तिवाक् स्यादुपहितविषयैवात्मनीवेति चेन्न । प्राथम्यस्याश्रुतत्वात् प्रथमपठनतः कल्पनेऽन्येन बाधात् किंचामर्त्योक्तितुल्यं त्वमृतपदमिहानेकवाक्यैककण्ठ्यात् ॥२२२॥
2.3.4 यौ(यु)क्तस्सत्कार्यवादः श्रुतिभिरनुमतो नावयव्यस्ति सृज्यः तत्तद्द्रव्येषु नामान्तरभजनसहावस्थया सृष्टिवादः । इष्टाश्शब्दाद्यवस्थास्तव निरवयवद्रव्यवर्गेऽपि तस्मात् व्योमन्युत्पत्तिरुक्ता श्रुतिषु तदितरोत्पत्तितुल्या न बाद्ध्या ॥२२३॥