अधिकरणसारावली
॥ अथ द्वितीयाध्याये चतुर्थ: पाद:॥
उपोद्घातम्
2.4.1 अक्षाद्युत्पत्त्यनूक्तौ नहि फलमधिकाशङ्कनं त्वत्र मन्दं तत्संख्यादेः परीक्षाऽप्यनुकृतबलिभुग्दन्तचिन्तेति चेन्न। एतेष्वब्रह्मकार्यं किमपि कथयतां बाधनेनार्थवत्त्वा- त्तत्साक्षात्संगतिस्स्यात् प्रथमचरमयोर्मध्यमानां प्रसङ्गात्।।
2.4.2 अष्टावत्राधिकाराः प्रथममिह वियन्नीतिरुक्तेन्द्रियाणां तेजोबन्नोक्तनीतिं द्रढयति चरमे व्यष्टिभेदस्य सृष्टौ। संख्यामानादिचिन्तास्वपि तदुपहितोपासनाद्यैः फलं स्यात् प्राणादिभ्यः प्रमाता पृथगिति विशदीकर्तुमप्येष पादः।।