अधिकरणसारावली
ज्योतिराद्यधिष्ठानाधिकरणम्
2.4.9 भोक्तॄणां देवतानामपि तनुकरणाधिष्ठितिर्नेशतन्त्रा तत्स्वातन्त्र्यप्रदानादिति न तनुभृतस्तच्छरीरं हि सर्वे। नित्ये तत्पारतन्त्र्ये क्वचिदपि न भवेद्राजसामन्तनीतिः प्राणन्यायात् प्रभुत्वं तदिह परवशं चेतनानां स्वशक्ये।।