अधिकरणसारावली
प्राणाणुत्वाधिकरणम्
2.4.6 सर्वेष्वानन्त्यवादात् परिमितिनियमानुक्तितश्चेन्द्रियाणां व्याप्तिस्सिद्धेति चेन्न प्रयदखिलतनूत्क्रान्तिगत्यागतिभ्यः। वृत्त्या दूरस्थधीस्स्याद्भजनविधिपरेऽनन्ततोक्तिस्स्वकार्यैः कन्दस्थानां च तत्तत्तनुषु विकृतिमद्द्रव्यभावात् पृथुत्वम्।।