अधिकरणसारावली
प्राणोत्पत्त्यधिकरणम्
2.4.3 अग्रे सत्तामृषीणां श्रुतिरभिदधती प्राणतां वक्ति तेषां नात्र ब्रह्मैव वाच्यं बहुवचनहतेस्तेन नित्याक्षसिद्धिः। मैवं तत्सृष्टिदार्ढ्याद्बहुवचनमिदं पाशनीत्यैव नेयं प्राणर्षित्वे परात्मन्यपि हि सुघटिते तन्निरुक्त्यादिसाम्यात्।।