अधिकरणसारावली
वायुक्रियाधिकरणम्
2.4.7 प्राणः प्रागुक्तनीत्या परजनित इति स्थापितो वायुमात्रं देहान्तस्तत्क्रिया वा स इति न पृथगुत्पत्तिवादात् सहास्य। द्रव्यत्वं द्रव्यवर्गे पठनत उचितं नैष तत्त्वान्तरं स्या- त्तेजस्त्वे वाय्ववस्थात्यजनवदिह तत्त्यागहानेः कदाऽपि।।