अधिकरणसारावली
संज्ञामूर्तिकॢप्त्यधिकरणम्
2.4.11 मन्वाद्यैस्स्मर्यतेऽसौ सरसिजवसतिर्व्यष्टिनामादिकर्ता जीवेनानुप्रविश्येत्यपि कथितमतः प्रेष्यकृत्यक्रमो़ऽत्र। तन्नैकोऽहि प्रवेष्टा त्रिवृतमकृत च व्याकरोदित्यधीत- स्तत्तज्जीवान्तरात्मा सृजति स भगवांस्तादृशं कार्यजातम्।।
2.4.12 या जीवेनात्मनेति श्रुतिरियमपि न ब्रह्मजीवैक्यमाह प्रागेवैकोऽन्तरात्मा वपुरितरदिति स्थायिभेदाभिधानात्। तेनेशस्तद्विशिष्टः स्वकरणकतयाऽनुप्रवेशेऽपि कर्ता जीवे तत्कर्तृतायामिह न हि घटते त्वाश्रुतिः कर्तृभेदात्।।
2.4.13 अग्न्यादावण्डमध्यस्थितिमति कथितं रूपभेदैस्त्रिवृत्त्वं तेजोबन्नाशितोक्तावपि विशदमिदं तेन वेधास्त्रिवृत्कृत्। मैवं ब्रह्माण्डसृष्टिर्भवतु कथमसावत्रिवृत्कारपूर्वा भुक्तेऽन्नादौ त्रिधोक्ता परिणतिरितरत् सन्निकृष्टेः प्रदृष्टिः।।
2.4.14 अक्षाणां जन्मसंख्यापरिमितय इह प्राणवायोस्स्वरूपं तत्सौक्ष्म्यं देवतादेस्तदुभयविषयाधिष्ठितौ पारतन्त्र्यम्। प्राणस्यानिन्द्रियत्वं बहुविधचिदचिद्व्यष्टिनामादि चाद्या- त्पञ्चीकर्तुः स्वनाभिप्रभवकवचितादूचिरे प्राणपादे।।
2.4.15 नित्यत्वं व्योम्नि वाताद्यणुषु च पुरुषेऽप्यज्ञतादीनपार्थाञ् श्रोत्रादौ भूतताद्यं मनसि च विभुतां नित्यतत्त्वान्तरत्वम्। प्राणेष्वात्मादिभावं स्वपदनियमनस्वैरितां स्वर्गिबृन्दे वेधस्युन्मुक्तयन्त्रक्रममपि वदतां पादयुग्मेऽत्र भङ्गः।।
2.4.16 तर्कैरापातसत्यैरविहतिकथने व्याहतिः स्थापिता स्यात् सम्यग्भिर्वस्तुगत्या तदिति यदि तदा स्वाभिमानोपरोधः। तेनाद्ध्यायो विरोधप्रशमनकृदसौ बौद्धबन्धोर्विरुद्ध- स्सौत्री तर्काप्रतिष्ठा श्रुतिपथविमुखस्वैरवादेषु योज्या।।