अधिकरणसारावली
सप्तगत्यधिकरणम्
2.4.4 सप्त प्राणाश्चरन्तीत्युदितमभिहितास्ते विशिष्यापि योगे तस्मात् सप्तेन्द्रियाणीत्यसदधिकवचोदृष्टितोऽत्रान्यपर्यात्। लक्ष्मैषां सात्त्विकाहंकरणपरिणतद्रव्यता चाविशिष्टा भेदेनोक्तिः प्रधाने मनसि फलवती कर्मबोधेन्द्रियेभ्यः।।
2.4.5 देहव्याप्येकमक्षं कतिचिदकथयन् भागतो भिन्नकृत्यं केचित् कर्मेन्द्रियाणि श्रुतिपथविमुखास्तत्यजुः क्षुद्रतर्कैः। क्षेत्रज्ञस्याहुरेके सह करणगणं बुद्ध्यहङ्कारचित्तै- रन्ये तं चित्तवर्जं निजगदुरिति तानर्थतोऽत्र व्युदास।।