अधिकरणसारावली
अनिष्टादिकार्यधिकरणम्
3.1.11 सर्वेषां देहपाते सति नियमवती चन्द्रमः प्राप्तिरुक्ता तस्मात् पापोत्तराणां निरयगतिपुरस्कारिणी सेति चेन्न। लोकस्सूंपूर्यते तैर्न पर इति गिरा संकुचेत् सर्वशब्द- स्ते तत्तद्यातनान्ते तत इह सहसा कुत्सितां यान्ति योनिम्।।
3.1.12 जन्मप्राप्तिर्जरायुप्रभृतिषु भवितां कर्मपाकैर्विचित्रा भूयिष्ठैः पुण्यपापैस्त्वपदवदनवती पञ्चमाहुत्यपेक्षा। तद्वद्धूमादिमार्गः कति कति च शुभैरुत्कटैर्देहपाते दिव्यं रूपं विमानादिकमपि सपदि प्राप्य याताः प्रसिद्धाः।।