अधिकरणसारावली
अन्याधिष्ठिताधिकरणम्
3.1.15 जन्म व्रीह्यादिनाम्ना श्रुतमिह तदिदं देवमत्र्यत्ववत्स्यात् नैरात्म्यं स्थावराणां नच निगमविदस्स्थापयन्तीति चेन्न। पुण्यस्यैव प्रवृत्ते फलपरिगणने स्थावरत्वोक्त्त्ययोगात् रेतस्सिगवर्ष्मणीव ह्युपचरति जनिं स्थावरेऽप्यन्यदेहे।।
3.1.16 हिंसायोगादशुद्धं श्रुतिविहितमपि न्यायमिष्टादिकं तत्- पापांशं व्रीहिभावप्रभृतिषु सुकृती भुङ्क्त इत्यप्ययुक्तम्। उक्ता मन्त्रार्थवादैः पशुहितमिति सा तच्चिकित्सावदेषां ब्रूते यज्ञे वधोऽसाववध इति मनुस्स्तौति निन्दा त्विहान्यत्।।
3.1.17 कर्तुर्दोषं दिशेत् संज्ञपनमिह पशोस्तत्क्रतोश्चोपकुर्यात् तस्मादस्मिन्निषेधं क्षिपति न विधिरित्यब्रुवन् सांख्यभक्ताः। निर्धूते पश्वनर्थे न खलु तदुचितं पिष्टपश्वादिकल्पः तत्तत्कालाधिकारिप्रतिनियत इति क्वापि न स्याद्विरोधः।।
3.1.18 किञ्चोत्सर्गापवादक्रममिह जहतः कीदृशी नित्यहिंसा शुद्धं न क्वापि सिध्योत् तव हि विधिपदं स्पष्टतत्तन्निषेधम्। यत्रासत्यादि वैद्यं तदनु च विहिता निष्कृतिस्तन्निमित्ता तत्रागत्या तथा स्यादितरवदथावा केवलं तन्निमित्तम्।।
3.1.19 अश्लिष्टं विग्रहाद्यैर्नभ इव मुसलैः क्षेत्रिणं केचिदाहुः कर्माकर्तारमेवं फलमपि विविधोपाधिभेदैकनिष्टम्। अव्यक्तस्यापवर्गं भवभुजमपि चानादिमुक्तस्वभावं तेषामित्थं मनीषां वहिरकृत नयैरेष वैराग्यपादः।।
3.1.20 पादे त्वर्थाष्षडस्मिन् वपुरिह विजहद्भूतसूक्ष्मैस्सहेयात् भुक्तस्वर्गोऽवरोहेदनुशयसहितो मात्रया भिन्नमार्गः। चन्द्रावाप्त्यादि न स्यान्निरयपथजुषामम्बरादौ सदृक्त्वं तस्माच्छीघ्रोऽवरोहः परवपुषि चिरं व्रीहिपूर्वे तु योगः।।