अधिकरणसारावली
कृतात्ययाधिकरणम्
3.1.7 इष्टापूर्तादिरूपं तनुभृदिह शुभंकर्म यत् किंच कुर्यात् भुक्त्वा कृत्स्नं तदन्ते पुनरवनिमियादित्यसड़ृष्टबाधात्। कार्त्स्न्येनेत्यश्रुतत्वात् सुकृतफलतया जातिभेदाद्यधीते- स्तस्मात् प्रारब्धशेषैस्तदितरसहितैरापतेत् स्वर्गपान्थः।।
3.1.8 धूमं रात्रिं च पक्षं तिमिरकलुषितं दक्षिणावृत्तिमासान् पश्चाल्लोकं पितॄणां गगनमपि मृतश्चन्द्रमभ्येति कर्मी। प्रत्यावृत्तौ तु चन्द्राद्रगनसततौ धूममभ्रं च मेघं व्रीह्यादीन्याति रेतस्सिचमथ जननीं यातनाचक्रवर्ती।।
3.1.9 आचारांशस्य साद्ध्यं चरणवचनतो जीतिभोगादिकं स्यात् कर्माचारौ विभक्तौ श्रुतित इति न सद्गत्यभावात्तथोक्तेः। मुख्यं वृत्त्या हि कर्मण्यपि चरणवनो नैकदेशे निरोद्ध्यं जात्यादिः कर्मभेदप्रभव इति मिते चिन्त्यमाचारसाद्ध्यम्।।
3.1.10 प्राप्ताचारातिवृत्तौ प्रतिपदमृषयस्सस्मरुः प्रत्यवायान् प्राचीनांहः प्रणाशं तदनुसरणतः पुण्यकर्मार्हतां च। नातस्सत्कर्ममात्रात् त्रिदिव इति धिया तत्परित्यागशङ्का न ह्याचारप्रहीणे श्वदृतिजलसमश्शोधको वेदवर्गः।।