अधिकरणसारावली
॥ तृतीयाध्यायस्य प्रथम पाद:॥
तदन्तरप्रतिपत्त्यधिकरणम्
3.1.1 साद्ध्या मुक्तिर्नचेत्स्यात्प्रसजति विफला साधनाद्ध्यायक्लृप्ति- स्साद्ध्या चेन्नश्वरी स्यात् कथमिह पुनरावृत्तिशून्योऽपवर्गः। मैवं ब्रह्मानुभूतिः परभजनवता प्रागसिद्धैव साद्ध्या धीसंकोचप्रणाशस्त्वियमिति च भवत्युत्तरावध्यतीता।।
3.1.2 पादाभ्यामत्र पूर्वं जनयति भवितां ब्रह्मविद्याधिकारं पश्चात्तेषामुभाभ्यां वदति बहुविधां तामशेषैस्सहाङ्गैः। ऐश्वर्यादौ विरक्तिं निरवधिविभवे पूरुषे चाभिलाषं विद्याभेदावलम्बं तदुपकरणमप्याह पादैः क्रमेण।।
3.1.3 संसारोद्विग्नचेतास्तनुभृदधिकरोत्यत्र शारीरकांशे वैराग्यार्थस्तु पादः किमिति पुनरसौ सूत्रकारैर्निबद्धः। सत्यं प्राप्यान्तराणां निरयगणतुलारोपणं मुक्त्युपाय- प्रारम्भेऽभ्यर्हितं स्यात्त्वरत इह खलु स्पष्चस्वबोधः।।
3.1.4 देहाद्यं भोग्यनीत्या दिवि भुवि च गतौ तत्रतत्रैव लभ्यं प्राणाद्यैभूतसूक्ष्मैरपि किमिह मुधा पूर्वदेहाद्गृहीतैः। जीवस्याणोर्गतिं च स्वयमुपजनयेदीश्वरः प्राणनीत्या मैवं स्वच्छन्दकृत्ये श्रुतिमितनियतौ गौरवोक्तेरयुक्तेः।।
3.1.5 नानाजातीयराशिं व््यपदिशति जनो भूयसोंऽशस्य नाम्ना प्राचुर्यादेवमापः पुरुषवचस इत्युच्यते भूतवर्गः। व्यष्टिं पञ्चीकृतैस्तैस्सृजति हि स विभुस्तारतम्यं पुनश्च श्रद्धाशब्दस्त्विहापः कथयति निगमे तत्समाख्यावदुक्तेः।।
3.1.6 द्यौः पर्जन्योऽथ पृथ्वी तदनु च पुरुषो योषिदित्येवमेतान् पञ्चाग्नीन् कल्पयित्वा परिकरसहितांस्तेषु पञ्चाग्निविद्या। श्रद्धाख्यं भूतसूक्ष्मं क्रमपरिणतितससोमवर्षान्नरेतो- रूपं हव्यं सजीवं तनुधरमरुतो जुह्वतीति ब्रवीति।।