अधिकरणसारावली
अहिकुण्डलाधिकरणम्
3.2.22 विश्वस्रष्टुस्स्वदुः खप्रजननमिह न स्वांशतोऽचित्त्वक्लृप्तौ मृत्तत्कार्यादिकञ्च स्वरसमिह बहूदाहृतं सप्रतिज्ञम्। तस्मादव्याकृतादिर्विहरणनियता विक्रयैवेति चेन्न स्वांशे मौढ्यं वितन्वन्विहरति भगवानित्यनर्थानपोहात्।।
3.2.23 कश्चिन्नित्योऽचिदंशो विविधविकृतिमान् ब्रह्मणीत्याहुरेके फेनादिन्यायतोऽन्ये सति विकृतिवशाद् ज्ञाज्ञसर्वज्ञभागान्। चन्द्रज्योत्स्नादिनीत्या कतिचिदिह जगद्ब्रह्मणोरैकजात्यं सर्वे ते सर्ववेदस्वरसगतिहतेरत्र वित्रासनीयाः।।