अधिकरणसारावली
उभयलिङ्गाधिकरणम्
3.2.16 नैर्गुण्यं निर्गुणोक्तेर्गुणवचन मिहाविद्यघर्मार्थवादो नैर्दोष्यं वस्तुवृत्त्या तदितरदखिलं स्वाप्नभोगादितुल्यम्। इत्थं जीवेशभूमापहरणकुहनावादमोमुह्यमानान् क्षेप्तुं नस्थानतोऽपीत्यधिकरणमथारभ्यतेऽनेकश्रृङ्गम्।।
3.2.17 हेयं वस्तु स्वतो यत् स्थितिरिह हि भवेद् दुःखकृत्स्वेच्छयापि त्याज्यत्वं नान्यथा स्यादिति न निरुपधेर्हेयभावस्य हानेः। नित्यस्वातन्त्र्यभाजो भविन इव दशाभेदतो नाप्यवद्यं श्रुत्यैवैकत्र देहे परतदितरयोश्शुद्ध्यशुद्धी ह्यधीते।।
3.2.18 ब्रह्मक्षत्रादिदेहेष्वणुरिव विभुरप्यात्मभावेन तिष्टन् तत्तच्छब्दाभिलप्यस्तदिह स न कथं तत्तदादेशवश्यः। मैवं न ज्ञाप्यतेऽसावविदितविरहाच्छासितृत्वान्न शास्यः किञ्चिज्ज्ञो ह्यन्यतन्त्रो जगति हितविदा बोध्यतते प्रेर्यते च।।
3.2.19 उत्सर्गेणापवादं न खलु नयविदः क्षोभणीयं क्षमन्ते तस्मात् ब्रह्मे गुणादौ विधिविषयमतिक्रम्य तिष्ठेन्निषेधः । एवं शान्ते विरोधे नहि समविषयापच्छिदान्यायसिद्धिः दृष्टो नित्यं निषेधः पर इह च ततस्स्यादुपक्रान्तिनीतिः।।
3.2.20 सत्त्वं कार्यस्य गोपायति कथमसतस्सद्भवेदित्यधीतिः द्रव्यान्यत्वं हि कार्ये व्यपनयति परं मृत्तिकेत्येवशब्दः। अन्तर्भावाद्विशिष्टे भगवति जगतो नेहनानेति युक्तं निर्दिष्टेयत्त्वशङ्कां प्रशमयति परे नेतितेतीति चोक्तिः।।
3.2.21 तत्तद्वस्तुप्रदेशे सकलगुणतया पूर्णदृश्यः परात्मा वृद्धिह्रासादिभेदोज्झित इति हि जलाधारसूर्योपमोक्तिः। असपर्शोदाहृतिश्चेन्न हि घटकरकाकाशदृष्टान्तयुक्ति- स्तस्माग्ब्रह्म द्विलिङ्रं द्विविधविभवमित्येव वेदान्तपक्षः।।