अधिकरणसारावली
कर्मानुस्मृतिशब्दविध्यधिकरणम्
3.2.12 मुक्तिर्ब्रह्मण्यपीतिरजहदसुखगणा तादृशीयं सुषुप्तिः श्रुत्यैव ख्याप्यतेऽतस्तदनु तनुभृदुद्बुध्यमानस्ततोऽन्यः। मैवं कर्मानुवृत्तेस्स्मरणनियमतः पूर्वएवेतिशब्दात् मोक्षोपायादिशिष्टेस्स्वपदनुवदनात् प्राच्य एव प्रबुद्धः।।
3.2.13 जीवानादित्वमूचे दृषदनुकरणं क्षेप्स्यते चापवर्गे स्वर्गाद्यर्थेप्रवृत्तिश्श्रुतिनयविदिता सौगताद्याश्च भग्नाः। कल्पान्तेऽप्येकतोक्तेर्नियमितविषया नामरूपग्रहाणात् भूयश्चिन्ता सुषुप्तेः प्रलयसमदशासञ्जिहासादिसिद्ध्यै।।