अधिकरणसारावली
तदभावाधिकरणम्
3.2.11 स्थानं जन्तोस्सुषुप्तौ श्रुतिरनियमतो वक्ति नाड्यः पुरीतद् हार्दं ब्रह्मेति तस्मादिह भवतु मिथो नैरपेक्ष्याद्विकल्पः। तन्न प्रासादखट्वाशयनवदुपकृत्यन्तरैर्योजितानां पक्षेपक्षे विकल्पः क्रमघटितचतुर्दोषयुक्तो न युक्तः।।