अधिकरणसारावली
पराधिकरणम्
3.2.24 सेतुं तीर्त्वेत्धीतेः परिमितिवचनात् प्राप्यसम्बन्धितोक्ते- रन्याधिक्यश्रुतेरप्यतिवहननयात्कारणं प्रापकं स्यात्। प्राप्यं त्वन्यद्भवेदित्यसदनवधिके कारणे प्राप्यतोक्तेः सेतुत्वाद्युक्तिरस्मिन् बहुभिरविहतां वृत्तिमङ्गीकरोतु।।
3.2.25 सेतुत्वं सेतुतुल्याद्विधरणनियमाद्बन्धनाद्वात्र युक्तं व्याप्तेऽप्यस्मिन्नुपाधेः परिमितिवचनं सार्थकं सूत्रितं प्राक्। चातुष्पद्य ञ्च तत्तन्मतिसमनुगुणं कल्प्यतेऽनन्तभूम्नः ल्वस्येत्येवामृतस्येत्यभिहितमथवा मुक्तिरेवामृतं स्यात्।।
3.2.26 अन्यस्याधिक्यवादे परमवधितया कारणं यत्र दृष्टं तत्र ह्यव्याकृतादिस्तदवधिरितरपेक्षयासौ परश्च। यस्मादन्यत्परं नेत्यभिहितविषये तत्परोक्तेरयुक्तेः एवन्त्वादित्यनूक्तिस्तत इति यदिवा व्याप्ययुक्तं तदस्तु।।