अधिकरणसारावली
तृतीयाध्यायस्य द्वितीयः पादः
सन्ध्याधिकरणम्
3.2.1 ब्रह्मैव स्वैस्स्वभावैर्बहुमुखमवदत् प्राक्तनाध्याययुग्मे तस्येहाकृष्य चिन्ता किमिति पुनरसौ साधनाध्यायमध्ये। मैवं विद्याः प्रभेत्तुं विशदयति परं तद्धि तद्रूपभेदात् सिद्धोपायादिभावं प्रथयति च विभोः प्राप्यतृष्णाप्रथिम्ने।।
3.2.2 नैर्गुण्यं ब्रह्मणश्चेद्वितथ इह गुणैरब्रह्मविद्याविभागः सोऽस्त्वेतैः कल्पितैश्चेच्छ्रुमतविहतिर्नात्र दृष्टिक्रमोऽपि। निर्दोषत्वच्च नित्यं यदि वदसि मुधा दोषशान्त्यर्थयत्नः कल्प्यं चेद् दुष्टता स्यात् प्रकृतिरिति परक्षिप्तये चैष पादः।।
3.2.3 किञ्चादौ चिन्त्यभावः प्रमितिविषयतास स्वप्रभत्वं सुखत्वं विश्वाधिष्ठानता चस्वबहुभवनधीर्निविशेषे कथं स्यात्। सर्वश्रुत्यर्थहानं स्ववचनविहतिस्सर्वमानैश्च बाधो मायावैयात्यभाजामिति सगुणदशोपास्तिपादश्च दुस्स्थः।।
3.2.4 त्यक्तं दोषैर्गुणाढ्यं यदि पुनरिह तद् चिन्त्येत पादे जीवस्वप्नाद्यवस्थामननमथ कथं संघटेतेति चेन्न। स्वाप्नार्थस्रष्ट्टभावबहुविधब्रह्ममाहात्म्यसिद्ध्यै जन्तोरस्य स्वमुक्तावति परवशताज्ञप्तये चैतदत्र।।
3.2.5 पादस्यास्याद्यमर्धँ कतिचिदधिजगुः पूर्वपादस्य शेषं पश्चार्धञ्चात्र साक्षादनुघटितमुपास्त्यर्थतत्तद्गुणोक्तेः। एतन्नातीव हृद्यं शबलितकथने चातुरीवैपरीत्यात् ब्रह्मोक्तौ जीवदोषग्रह इह तु मुखं तत् प्रतिद्वन्द्विबुद्धेः।।
3.2.6 स्वप्नेऽनार्थआस्सन्तु सृष्टास्तदपि बहुविधा दुस्त्यजा भ्रान्तिरत्र प्रध्वस्तानामिदानीन्तनवदनुभवात् स्धायितादिभ्रमाच्च। सत्यं श्रुत्यादिसिद्धे श्रुतपरिहरणायोगतस्सृष्टिमात्रं स्वीकृत्यांशे तु बाधाद् भ्रममपि हि यथाजागरं न क्षिपामः।।
3.2.7 कश्चिद्योगप्रभावान्निजपरभवनस्स्वैरसञ्चारनीत्या निष्क्रान्तः पूर्वदेहाद्विशति परवपुः पूर्वमाप्नोति भूयः इत्थं स्वप्नेऽप्युदन्तस्थिति कतिचिच्छ्वासवृत्त्या तथान्ये चित्तोद्यद्धीप्रसृत्येतरतनुभजने सौभरिन्यायसिद्धेः।।
3.2.8 उक्तं पत्या प्रजानां भविनि दहरवत्सत्यसंकल्पताद्यं पुत्रादेश्चैष कर्ता प्रकृतइह सृजेत्स्वाप्नमर्थञ्च मैवम्। मुक्तौ तादृग्गुणोक्तेरनभिमतसमुत्पादनादेरयोगात् स्वाप्नानां सूचकत्वादपि निखिलजगत्कर्तुरेषापि सृष्टिः।।
3.2.9 कामङ्कामं विधातेत्यपि णमुलुचितोऽनूद्यते चेश इत्थं सोऽयं सुप्तेषु जागर्त्यपि विशदमिदं सम्परिष्वङ्गवाक्यात्। तत्तत्कालावसानाः कति कति नियता जागरेऽप्यर्थभेदाः तत्तत्कर्मानुरूपं फलवितरणमित्येतदप्युक्तमाप्तैः।।
3.2.10 मायामात्रोक्तिलाभाच्छ्रुतिमुखसुगता विश्वमिथ्यात्वमाहुः शास्त्रारम्भे तदेभिः कथितमिह ततोऽसङ्गतत्वादिदुस्स्थम्। मायाशब्दो न मिथ्यावचन उपचरत्वन्ततः किं ततस्स्यात् सत्येऽशास्त्रादौ प्रयोगादुचितनियमने सोऽयमाश्चर्यतार्थः।।