अधिकरणसारावली
अक्षरध्यधिकरणम्
3.3.38 यस्यामस्थूलतादि प्रपठितमुचितं चिन्तनं तस्य तस्यां नान्यस्यां मानहानेर्न यदि नियमनं कस्य कुत्रेति चेन्न । हेतुत्वोन्नेयदोषव्यपनयनमिह ब्रह्मविद्यासु सर्वा- स्वानन्दाधिक्रियोक्तक्रमनियमितमित्यस्य सार्वत्रिकत्वात् ।।
3.3.39 सत्यत्वाद्यैस्स्वरूपावगतिरभिहिता सर्वविद्यानुवृत्त्या भूयस्तत्तुल्यधर्मेष्वधिकरणमिदं स्याद् वृथैवेति चेन्न । कैश्चिज्ज्ञातस्वरूपे क्वचिदितरगतं किञ्चिदन्यन्निषेध्यं व्यावृत्त्या न स्वरूपावगतिरत इति प्रेक्षणस्यापि रोधात् ।।
3.3.40 व्यावर्त्यानन्त्यतस्तद्व्युदसनमपि हि स्यादनन्तं ततस्त- च्चिन्ता किञ्चिज्ज्ञसाध्या जलधितरणवन्नोपदिश्येत मैवम् । तत्तत्सामान्यधर्मानुहतिकबलिताशेषभेदोपदेशे तादृक्विन्तोपपत्तेरनवममिति वा गृह्यतां संगृहीतिः ।।